मंगलवार, 27 मार्च 2012

ॐ श्री गणेशाय नमः । Shri Ganeshaya Namaha


ॐ श्री गणेशाय नमः । Shri Ganeshaya Namaha
सुमुखश्चैकदंतश्च कपिलो गजकर्णकः ।
लम्बोदरश्च विकटो विघ्ननाशो गणाधिपः ।
धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः ।
द्वादशैतानि नामानि यः पठेच्छृणुयादपि ।
विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा ।
संग्रामे संकटे चैव विघ्नस्तस्य न जायते ॥




श्री सङ्कष्टनाशन गणेश स्तोत्रम्

नारद उवाच।

प्रणम्य शिरसा देवं गौरी पुत्रं विनायाकम्।

भक्तावासं स्मरेन्नित्यम् आयुष्कामार्थसिद्धये॥१॥

प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम्।

तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतर्थकम्॥२॥

लम्बोदरं पञ्चमं च षष्ठं विकटमेव च।

सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम्॥३॥

नवमं भालचन्द्रं च दशमं तु विनायकम्।

एकादशं गणपतिं द्वादशं तु गजाननम्॥४॥

द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः।

न च विघ्नभयं तस्य सर्वसिद्धिकरं परम्॥५॥

विद्यार्थी लभते विद्यां धनार्थी लभते धनम्।

पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम्॥६॥

जपेद्गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत्।

संवत्सरेण सिद्धिं च लभते नात्र संशयः॥७॥

अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत्।

तस्य विद्या भवेत् सर्वा गणेशस्य प्रसादतः॥ ८॥

॥इति श्रीनारदपुराणे सङ्कष्टनाशनं नाम गणेशस्तोत्रं सम्पूर्णम्॥



॥श्री गणेशाय नमः॥

श्री प्रज्ञाविवर्धनाख्यं कार्तिकेय स्तोत्रंम्

स्कन्द उवाच।

योगिश्वरो महासेनः कार्तिकेयोऽग्निनन्दनः।

स्कन्दः कुमारः सेनानीः स्वामी शङ्करसम्भवः॥१॥

गाङ्गेयस्ताम्रचूडश्च ब्रह्मचारी शिखिध्वजः।

तारकारिरुमापुत्रः क्रौञ्चारिश्च षडाननः॥२॥

शब्दब्रह्म समुद्रश्च सिद्धः सारस्वतो गुहः।

सनत्कुमारो भगवान् भोगमोक्षफलप्रदः॥३॥

शरजन्मा गणाधीशपूर्वजो मुक्तिमार्गकृत्।

सर्वागमप्रणेता च वञ्छितार्थप्रदर्शनः॥४॥

अष्टाविंशतिनामानि मदियानीतियः पठेत्।

प्रत्यूषं श्रद्धया युक्तो मूको वाचस्पतिर्भवेत॥५॥

महामन्त्रमयानीति मम नामानुकीर्तनम्।

महाप्रज्ञामवाप्नोति नात्र कार्या विचारणा॥६॥

॥ इति श्रीरुद्रयामले प्रज्ञाविवर्धनाख्यं श्रीमत्कार्तिकेयस्तोत्रं सम्पूर्णं॥

इन लेखो  का भी अवलोकन करें: 

श्री गणेश जी की आरती 
ॐ श्री गणेशाय नमः
श्री गणेश चालिसा

1 टिप्पणी:

  1. सुमुखश्चैकदंतश्च कपिलो गजकर्णकः ।
    लम्बोदरश्च
    विकटो विघ्ननाशो गणाधिपः ।
    धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो
    गजाननः ।
    द्वादशैतानि नामानि यः
    पठेच्छृणुयादपि ।
    विद्यारंभे विवाहे च प्रवेशे निर्गमे
    तथा ।
    संग्रामे संकटे चैव विघ्नस्तस्य न जायते ॥

    जवाब देंहटाएं